पूर्वम्: ४।३।१५९
अनन्तरम्: ४।३।१६१
सूत्रम्
माने वयः॥
४।३।१६०
काशिका-वृत्तिः
माने वयः
४।३।१६२
द्रशब्दान् माने विकारविशेषे वयः प्रत्ययो भवति। यतो ऽपवादः। द्रुवयम्।
न्यासः
माने वयः।
, ४।३।१६०
बाल-मनोरमा
माने वयः
१५१९, ४।३।१६०
माने वयः। द्रोरित्येवेति। माने विकारे गम्ये द्रुशब्दाद्वयप्रत्ययः स्यादित्यर्थः।
तत्त्व-बोधिनी
माने वयः
११८२, ४।३।१६०
माने वयः। यतोऽपवादः। द्रुवयमिति। द्रोर्विकारभूतं प्रस्थादिपरिमाणमित्यर्थः।